Hindi:
स्वधा स्तोत्र का पूर्ण पाठ
ब्रह्मोवाच
स्वधोच्चारणमात्रेण तीर्थस्नायी भवेन्नर। मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत् ॥१॥
स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत्। श्राद्धस्य फलमाप्नोति कालस्य तर्पणस्य च ॥२॥श्राद्धकाले स्वधास्तोत्रं यः शृणोति समाहितः। लभेच्छ्राद्धशतानां च
पुण्यमेव न संशयः ॥३॥ स्वधास्वधा स्वधेत्येवं त्रिसन्ध्यं यःपठेन्नरः। प्रियां विनीतां स लभेत् साध्वीं पुत्रं गुणान्वितम् ॥४॥
पितॄणां प्राणतुल्या त्वं द्विजजीवनरूपिणी। श्राद्धाधिष्ठातृदेवी च श्राद्धादीनां फलप्रदा ॥५॥
बहिर्गच्छ मन्मनसः पितॄणां तुष्टिहेतवे। सम्प्रीतये द्विजातीनां गृहिणां वृद्धिहेतवे ॥६॥
नित्या त्वं नित्यस्वरूपासि गुणरूपासि सुव्रते। आविर्भावस्तिरोभावः सृष्टौ च प्रलये तव ॥७॥
ॐ स्वस्तिश्च नमः स्वाहा स्वधा त्वं दक्षिणा तथा। निरूपिताश्चतुर्वेदे षट् प्रशस्ताश्च कर्मिणाम् ॥८॥
पुरासीस्त्वं स्वधागोपी गोलोके राधिकासखी। धृतोरसि स्वधात्मानं कृतं तेन स्वधा स्मृता ॥९॥
इत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके च संसदि। तस्थौ च सहसा सद्यः स्वधा साविर्बभूव ह ॥१०॥
तदा पितृभ्यः प्रददौ तामेव कमलाननाम्। तां सम्प्राप्य ययुस्ते च पितरश्च प्रहर्षिताः ॥११॥
स्वधास्तोत्रमिदं पुण्यं यः शृणोति समाहितः। स स्नातः सर्वतीर्थेषु वेदपाठफलं लभेत् ॥१२॥
इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे ब्रह्माकृतं स्वधास्तोत्रं सम्पूर्णम्
भारत के नंबर 1 ज्योतिषी एस्ट्रो भाग्यराज गुप्त द्वारा अपनी कुंडली का विश्लेषण करवाएं अपॉइंटमेंट के लिए इस लिंक पर क्लिक करें Appointment With Aacharya Ji by Call | आचार्य जी से फ़ोन पर बात करें पर या मोबाइल नंबर +91 91156 51234 पर संपर्क कर सकते हैं। ॐ नमो भगवते वासुदेवाय नमः
English:
Brahmo Uvacha
Iti Shri Brahmavaivarta Mahapurane Prakriti-khande Brahmakritam Swadha-stotram Sampoornam.
Analyse your horoscope by India Bests Astrologer Astro Bhagyaraj Gupt take appointment click at this link Appointment With Aacharya Ji by Call | आचार्य जी से फ़ोन पर बात करें or You can whatsapp +91 91156 51234 .